माथेरान्
माथेरान् | |
---|---|
गिरिधाम | |
राज्यम् | महाराष्ट्रम् |
मण्डलम् | रायगढमण्डलम् |
Area | |
• Total | ७ km२ |
Elevation | ८०० m |
Population (2001) | |
• Total | ५,१३९ |
• Density | ७३०/km२ |
Languages | |
• Official | मराठी, हिन्दी, आङ्ग्लभाषा |
Time zone | UTC+5:30 (IST) |
PIN |
410102 |
Telephone code | 02148 |
Vehicle registration | MH-06 |
Nearest city | Karjat |
माथेरान् गिरिधाम (०२१४८)
[सम्पादयतु]दक्षिणप्रस्थभूमेः सह्याद्रिपर्वतश्रेण्याः हरिद्वनेषु अत्यन्तं सुन्दरम् अपूर्वं गिरिधाम एतदस्ति । सागरस्तरतः ८०३ मीटरोन्नते प्रदेशे एतत् गिरिधाम अस्ति । ठाणाविभागस्य आङ्गलाधिकारी ह्यूग मालेट् क्रिस्ताब्दे १८५० तमे वर्षे एतत् प्रथमतः दृष्टवान् । अनन्तरं नेराळप्रदेशतः वाहनमार्गनिर्माणं कारितवान् । क्रिस्ताब्दे १९०७ तमे वर्षे मुम्बयीवणिक् पीरभायीपुत्रः अब्दुल् हुसेन् धूमशकटयान् सौलभ्यं कारितवान् ( तस्मिन् काले एतस्य व्ययः १६लक्षरूप्यकाणि)। अत्र पक्षिवीक्षणं दृश्यवैभवं वनप्रदेशे पादचारणं च आनन्दविषयाः सन्ति ।
सूर्योदयात्पूर्वमेव दृश्यवीक्षणाय निश्चितं स्थानं प्राप्तव्यं भवति । पोर्कुपैन् पायिण्ट् लूयिस् पायिण्ट, ६ कि.मी दूरे स्तः । अन्यानि स्थानानि नाम कपाडिया पायिण्ट्, नवरोजिलार्ड्स् उद्यानं, शिवाजील्याडर्, इत्यादीनि सन्दर्शनयोग्यानि सन्ति । उपरिष्टात् कन्दरदर्शनं चेतोहारि भवति । वृक्षाः अपि दर्शनीयाः सन्ति । चारलोट्टेनामकं किञ्चन सुन्दरसरोवरम् । अत्र नौकाविहारः तरणं मत्स्यग्रहणं च आनन्दकारणानि भवन्ति । अस्मिन् गिरिधाम्नि वाहनानि न आगच्छन्ति । वाहनानां निषेधः अस्ति । तथा प्लास्टिक् इत्यादीनामपि निषेधः अस्ति । ४० निमेषान् यावत् पादचारणेनैव गन्तव्यं भवति । पादचारणाय अत्र उत्तमव्यवस्था अस्ति ।
व्यवस्था
[सम्पादयतु]वासाय महाराष्ट्रप्रवासोद्यमनिलयाः सन्ति । उपाहारवसतिगृहाणि अपि अत्र सन्ति । पर्वतप्रदेशे सञ्चाराय अश्वशकटानि सन्ति ।
धूमशकटमार्गः
[सम्पादयतु]मुम्बयीपुणेमार्गे नैराल् निस्थानतः २५ कि.मी । मुम्बयीतः १०८ कि.मी । पुणेतः १४० कि.मी ३ कि.मी पादचारणेनैव गन्तव्यम् । अक्टोबरमासतः जनवरीमासं यावत् उत्तमः कालः भवति ।
चित्रशाला
[सम्पादयतु]-
माथेरान् मार्गाः
-
हठात् परिवर्तनरैलमार्गः
-
कश्चन सुन्दरमार्गः
-
शिखरात् दृश्यमानं दृश्यम्
-
नागगतिमार्गः